उद्यत्सूर्य ! विवस्वतेऽत्र भवते पुण्यात्मने भास्वते
लोकान् जागरणात्मने दिनकृते कालात्मने शाश्वते ।
त्वं सच्चित् सुखकारणं त्रिजगतो वेदात्मने ज्ञानिने
सानन्दोऽसि निरामयोऽसि भगवन् ! ध्यायामि तुभ्यं नमः ।।१।।
उद्यत्सूर्य ! नमाम्यहं प्रथमतो नत्वा भवन्तं पुनर्
वक्तव्यं परिमार्जितं शृणु यतो रोगैर्भृशं पीडितः ।
तत्पीडानुभवादहं तु किमतः कर्तुं न कार्यक्षमः
तस्मादत्र भवन्तमेव कलये संप्रार्थये चान्वहम् ।।२।।
उद्यत्सूर्य ! तमो निरस्यतु जगत् ते भास्वता काश्यताम्
अर्घं तेऽर्पयितुं कथं कथमपि नाहं क्षमः क्षम्यताम् ।
गायत्रीमपि जप्तुमेकमनसा नाहं क्षमः क्षम्यताम्
सन्ध्यावन्दन ! भद्रमस्तु भवते भो स्नान ! तुभ्यं नमः ।।३।।
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम्
पाठं चाप्यधुना तदेकमनसा कर्तुं न चाहं क्षमः ।
यत्र क्वापि निषद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि सकलं मन्ये किमन्येन मे ।।४।।